॥ वाल्मीकि रामायण – किष्किन्धाकाण्ड ॥
॥ vālmīki rāmāyaṇa – kiṣkindhākāṇḍa ॥

॥ सर्ग-४२॥
॥ sarga-42॥

ततः सन्दिश्य सुग्रीवः श्वशुरं पश्चिमां दिशम् ।
वीरं शतबलिं नाम वानरं वानरर्षभः ॥१॥
tataḥ sandiśya sugrīvaḥ śvaśuraṃ paścimāṃ diśam
vīraṃ śatabaliṃ nāma vānaraṃ vānararṣabhaḥ

उवाच राजा मन्त्रज्ञः सर्ववानरसंमतम् ।
वाक्यमात्महितं चैव रामस्य च हितं तथा ॥२॥
uvāca rājā mantrajñaḥ sarvavānarasaṃmatam
vākyamātmahitaṃ caiva rāmasya ca hitaṃ tathā

वृतः शतसहस्रेण त्वद्विधानां वनौकसाम् ।
वैवस्वतसुतैः सार्धं प्रतिष्ठस्व स्वमन्त्रिभिः ॥३॥
vṛtaḥ śatasahasreṇa tvadvidhānāṃ vanaukasām
vaivasvatasutaiḥ sārdhaṃ pratiṣṭhasva svamantribhiḥ

दिशं ह्युदीचीं विक्रान्तां हिमशैलावतंसकाम् ।
सर्वतः परिमार्गध्वं रामपत्नीमनिन्दिताम् ॥४॥
diśaṃ hyudīcīṃ vikrāntāṃ himaśailāvataṃsakām
sarvataḥ parimārgadhvaṃ rāmapatnīmaninditām

अस्मिन्कार्ये विनिवृत्ते कृते दाशरथेः प्रिये ।
ऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वराः ॥५॥
asminkārye vinivṛtte kṛte dāśaratheḥ priye
ṛṇānmuktā bhaviṣyāmaḥ kṛtārthārthavidāṃ varāḥ

कृतं हि प्रियमस्माकं राघवेण महात्मना ।
तस्य चेत्प्रतिकारोऽस्ति सफलं जीवितं भवेत् ॥६॥
kṛtaṃ hi priyamasmākaṃ rāghaveṇa mahātmanā
tasya cetpratikāro’sti saphalaṃ jīvitaṃ bhavet

एतां बुद्धिं समास्थाय दृश्यते जानकी यथा ।
तथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः ॥७॥
etāṃ buddhiṃ samāsthāya dṛśyate jānakī yathā
tathā bhavadbhiḥ kartavyamasmatpriyahitaiṣibhiḥ

अयं हि सर्वभूतानां मान्यस्तु नरसत्तमः ।
अस्मासु चागतप्रीती रामः परपुरञ्जयः ॥८॥
ayaṃ hi sarvabhūtānāṃ mānyastu narasattamaḥ
asmāsu cāgataprītī rāmaḥ parapurañjayaḥ

इमानि वनदुर्गाणि नद्यः शैलान्तराणि च ।
भवन्तः परिमार्गन्तु बुद्धिविक्रमसम्पदा ॥९॥
imāni vanadurgāṇi nadyaḥ śailāntarāṇi ca
bhavantaḥ parimārgantu buddhivikramasampadā

तत्र म्लेच्छान्पुलिन्दांश्च शूरसेनांस्तथैव च ।
प्रस्थालान्भरतांश्चैव कुरूंश्च सह मद्रकैः ॥१०॥
tatra mlecchānpulindāṃśca śūrasenāṃstathaiva ca
prasthālānbharatāṃścaiva kurūṃśca saha madrakaiḥ

काम्बोजान्यवनांश्चैव शकानारट्टकानपि ।
बाह्लीकानृषिकांश्चैव पौरवानथ टङ्कणान् ॥११॥
kāmbojānyavanāṃścaiva śakānāraṭṭakānapi
bāhlīkānṛṣikāṃścaiva pauravānatha ṭaṅkaṇān

चीनान्परमचीनांश्च नीहारांश्च पुनः पुनः ।
अन्विष्य दरदांश्चैव हिमवन्तं विचिन्वथ ॥१२॥
cīnānparamacīnāṃśca nīhārāṃśca punaḥ punaḥ
anviṣya daradāṃścaiva himavantaṃ vicinvatha

लोध्रपद्मकषण्डेषु देवदारुवनेषु च ।
रावणः सह वैदेह्य मार्गितव्यस्ततस्ततः ॥१३॥
lodhrapadmakaṣaṇḍeṣu devadāruvaneṣu ca
rāvaṇaḥ saha vaidehya mārgitavyastatastataḥ

ततः सोमाश्रमं गत्वा देवगन्धर्वसेवितम् ।
कालं नाम महासानुं पर्वतं तं गमिष्यथ ॥१४॥
tataḥ somāśramaṃ gatvā devagandharvasevitam
kālaṃ nāma mahāsānuṃ parvataṃ taṃ gamiṣyatha

महत्सु तस्य शृङ्गेषु निर्दरेषु गुहासु च ।
विचिनुध्वं महाभागां रामपत्नीं यशस्विनीम् ॥१५॥
mahatsu tasya śṛṅgeṣu nirdareṣu guhāsu ca
vicinudhvaṃ mahābhāgāṃ rāmapatnīṃ yaśasvinīm

तमतिक्रम्य शैलेन्द्रं हेमगर्भं महागिरिम् ।
ततः सुदर्शनं नाम पर्वतं गन्तुमर्हथ ॥१६॥
tamatikramya śailendraṃ hemagarbhaṃ mahāgirim
tataḥ sudarśanaṃ nāma parvataṃ gantumarhatha

तस्य काननषण्डेषु निर्दरेषु गुहासु च ।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥१७॥
tasya kānanaṣaṇḍeṣu nirdareṣu guhāsu ca
rāvaṇaḥ saha vaidehyā mārgitavyastatastataḥ

तमतिक्रम्य चाकाशं सर्वतः शतयोजनम् ।
अपर्वतनदीवृक्षं सर्वसत्त्वविवर्जितम् ॥१८॥
tamatikramya cākāśaṃ sarvataḥ śatayojanam
aparvatanadīvṛkṣaṃ sarvasattvavivarjitam

तं तु शीघ्रमतिक्रम्य कान्तारं रोमहर्षणम् ।
कैलासं पाण्डुरं शैलं प्राप्य हृष्टा भविष्यथ ॥१९॥
taṃ tu śīghramatikramya kāntāraṃ romaharṣaṇam
kailāsaṃ pāṇḍuraṃ śailaṃ prāpya hṛṣṭā bhaviṣyatha

तत्र पाण्डुरमेघाभं जाम्बूनदपरिष्कृतम् ।
कुबेरभवनं दिव्यं निर्मितं विश्वकर्मणा ॥२०॥
tatra pāṇḍurameghābhaṃ jāmbūnadapariṣkṛtam
kuberabhavanaṃ divyaṃ nirmitaṃ viśvakarmaṇā

विशाला नलिनी यत्र प्रभूतकमलोत्पला ।
हंसकारण्डवाकीर्णा अप्सरोगणसेविता ॥२१॥
viśālā nalinī yatra prabhūtakamalotpalā
haṃsakāraṇḍavākīrṇā apsarogaṇasevitā

तत्र वैश्रवणो राजा सर्वभूतनमस्कृतः ।
धनदो रमते श्रीमान्गुह्यकैः सह यक्षराट् ॥२२॥
tatra vaiśravaṇo rājā sarvabhūtanamaskṛtaḥ
dhanado ramate śrīmānguhyakaiḥ saha yakṣarāṭ

तस्य चन्द्रनिकशेषु पर्वतेषु गुहासु च ।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥२३॥
tasya candranikaśeṣu parvateṣu guhāsu ca
rāvaṇaḥ saha vaidehyā mārgitavyastatastataḥ

क्रौञ्चं तु गिरिमासाद्य बिलं तस्य सुदुर्गमम् ।
अप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत्स्मृतम् ॥२४॥
krauñcaṃ tu girimāsādya bilaṃ tasya sudurgamam
apramattaiḥ praveṣṭavyaṃ duṣpraveśaṃ hi tatsmṛtam

वसन्ति हि महात्मानस्तत्र सूर्यसमप्रभाः ।
देवैरप्यर्चिताः सम्यग्देवरूपा महर्षयः ॥२५॥
vasanti hi mahātmānastatra sūryasamaprabhāḥ
devairapyarcitāḥ samyagdevarūpā maharṣayaḥ

क्रौञ्चस्य तु गुहाश्चान्याः सानूनि शिखराणि च ।
निर्दराश्च नितम्बाश्च विचेतव्यास्ततस्ततः ॥२६॥
krauñcasya tu guhāścānyāḥ sānūni śikharāṇi ca
nirdarāśca nitambāśca vicetavyāstatastataḥ

क्रौञ्चस्य शिखरं चापि निरीक्ष्य च ततस्ततः ।
अवृक्षं कामशैलं च मानसं विहगालयम् ॥२७॥
krauñcasya śikharaṃ cāpi nirīkṣya ca tatastataḥ
avṛkṣaṃ kāmaśailaṃ ca mānasaṃ vihagālayam

न गतिस्तत्र भूतानां देवदानवरक्षसाम् ।
स च सर्वैर्विचेतव्यः ससानुप्रस्थभूधरः ॥२८॥
na gatistatra bhūtānāṃ devadānavarakṣasām
sa ca sarvairvicetavyaḥ sasānuprasthabhūdharaḥ

क्रौञ्चं गिरिमतिक्रम्य मैनाको नाम पर्वतः ।
मयस्य भवनं तत्र दानवस्य स्वयं कृतम् ॥२९॥
krauñcaṃ girimatikramya maināko nāma parvataḥ
mayasya bhavanaṃ tatra dānavasya svayaṃ kṛtam

मैनाकस्तु विचेतव्यः ससानुप्रस्थकन्दरः ।
स्त्रीणामश्वमुखीनां च निकेतास्तत्र तत्र तु ॥३०॥
mainākastu vicetavyaḥ sasānuprasthakandaraḥ
strīṇāmaśvamukhīnāṃ ca niketāstatra tatra tu

तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम् ।
सिद्धा वैखानसास्तत्र वालखिल्याश्च तापसाः ॥३१॥
taṃ deśaṃ samatikramya āśramaṃ siddhasevitam
siddhā vaikhānasāstatra vālakhilyāśca tāpasāḥ

वन्द्यास्ते तु तपःसिद्धास्तापसा वीतकल्मषाः ।
प्रष्टव्याश्चापि सीतायाः प्रवृत्तिं विनयान्वितैः ॥३२॥
vandyāste tu tapaḥsiddhāstāpasā vītakalmaṣāḥ
praṣṭavyāścāpi sītāyāḥ pravṛttiṃ vinayānvitaiḥ

हेमपुष्करसञ्चन्नं तत्र वैखानसं सरः ।
तरुणादित्यसङ्काशैर्हंसैर्विचरितं शुभैः ॥३३॥
hemapuṣkarasañcannaṃ tatra vaikhānasaṃ saraḥ
taruṇādityasaṅkāśairhaṃsairvicaritaṃ śubhaiḥ

औपवाह्यः कुबेरस्य सार्वभौम इति स्मृतः ।
गजः पर्येति तं देशं सदा सह करेणुभिः ॥३४॥
aupavāhyaḥ kuberasya sārvabhauma iti smṛtaḥ
gajaḥ paryeti taṃ deśaṃ sadā saha kareṇubhiḥ

तत्सरः समतिक्रम्य नष्टचन्द्रदिवाकरम् ।
अनक्षत्रगणं व्योम निष्पयोदमनादितम् ॥३५॥
tatsaraḥ samatikramya naṣṭacandradivākaram ।
anakṣatragaṇaṃ vyoma niṣpayodamanāditam

गभस्तिभिरिवार्कस्य स तु देशः प्रकाशते ।
विश्राम्यद्भिस्तपः सिद्धैर्देवकल्पैः स्वयम्प्रभैः ॥३६॥
gabhastibhirivārkasya sa tu deśaḥ prakāśate
viśrāmyadbhistapaḥ siddhairdevakalpaiḥ svayamprabhaiḥ

तं तु देशमतिक्रम्य शैलोदा नाम निम्नगा ।
उभयोस्तीरयोर्यस्याः कीचका नाम वेणवः ॥३७॥
taṃ tu deśamatikramya śailodā nāma nimnagā
ubhayostīrayoryasyāḥ kīcakā nāma veṇavaḥ

ते नयन्ति परं तीरं सिद्धान्प्रत्यानयन्ति च ।
उत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रियाः ॥३८॥
te nayanti paraṃ tīraṃ siddhānpratyānayanti ca
uttarāḥ kuravastatra kṛtapuṇyapratiśriyāḥ

ततः काञ्चनपद्माभिः पद्मिनीभिः कृतोदकाः ।
नीलवैदूर्यपत्राढ्या नद्यस्तत्र सहस्रशः ॥३९॥
tataḥ kāñcanapadmābhiḥ padminībhiḥ kṛtodakāḥ
nīlavaidūryapatrāḍhyā nadyastatra sahasraśaḥ

रक्तोत्पलवनैश्चात्र मण्डिताश्च हिरण्मयैः ।
तरुणादित्यसदृशैर्भान्ति तत्र जलाशयाः ॥४०॥
raktotpalavanaiścātra maṇḍitāśca hiraṇmayaiḥ
taruṇādityasadṛśairbhānti tatra jalāśayāḥ

महार्हमणिपत्रैश्च काञ्चनप्रभ केसरैः ।
नीलोत्पलवनैश्चित्रैः स देशः सर्वतोवृतः ॥४१॥
mahārhamaṇipatraiśca kāñcanaprabha kesaraiḥ
nīlotpalavanaiścitraiḥ sa deśaḥ sarvatovṛtaḥ

निस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः ।
उद्भूतपुलिनास्तत्र जातरूपैश्च निम्नगाः ॥४२॥
nistulābhiśca muktābhirmaṇibhiśca mahādhanaiḥ
udbhūtapulināstatra jātarūpaiśca nimnagāḥ

सर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः ।
जातरूपमयैश्चापि हुताशनसमप्रभैः ॥४३॥
sarvaratnamayaiścitrairavagāḍhā nagottamaiḥ
jātarūpamayaiścāpi hutāśanasamaprabhaiḥ

नित्यपुष्पफलाश्चात्र नगाः पत्ररथाकुलाः ।
दिव्यगन्धरसस्पर्शाः सर्वकामान्स्रवन्ति च ॥४४॥
nityapuṣpaphalāścātra nagāḥ patrarathākulāḥ
divyagandharasasparśāḥ sarvakāmānsravanti ca

नानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः ।
मुक्तावैदूर्यचित्राणि भूषणानि तथैव च ॥४५॥
nānākārāṇi vāsāṃsi phalantyanye nagottamāḥ
muktāvaidūryacitrāṇi bhūṣaṇāni tathaiva ca

स्त्रीणां यान्यनुरूपाणि पुरुषाणां तथैव च ।
सर्वर्तुसुखसेव्यानि फलन्त्यन्ये नगोत्तमाः ॥४६॥

महार्हाणि विचित्राणि हैमान्यन्ये नगोत्तमाः ।
शयनानि प्रसूयन्ते चित्रास्तारणवन्ति च ॥४७॥

मनःकान्तानि माल्यानि फलन्त्यत्रापरे द्रुमाः ।
पानानि च महार्हाणि भक्ष्याणि विविधानि च ॥४८॥

स्त्रियश्च गुणसम्पन्ना रूपयौवनलक्षिताः ।
गन्धर्वाः किंनरा सिद्धा नागा विद्याधरास्तथा ।
रमन्ते सहितास्तत्र नारीभिर्भास्करप्रभाः ॥४९॥

सर्वे सुकृतकर्माणः सर्वे रतिपरायणाः ।
सर्वे कामार्थसहिता वसन्ति सह योषितः ॥५०॥

गीतवादित्रनिर्घोषः सोत्कृष्टहसितस्वनः ।
श्रूयते सततं तत्र सर्वभूतमनोहरः ॥५१॥

तत्र नामुदितः कश्चिन्नास्ति कश्चिदसत्प्रियः ।
अहन्यहनि वर्धन्ते गुणास्तत्र मनोरमाः ॥५२॥

समतिक्रम्य तं देशमुत्तरस्तोयसां निधिः ।
तत्र सोमगिरिर्नाम मध्ये हेममयो महान् ॥५३॥

इन्द्रलोकगता ये च ब्रह्मलोकगताश् च ये ।
देवास्तं समवेक्षन्ते गिरिराजं दिवं गतम् ॥५४॥

स तु देशो विसूर्योऽपि तस्य भासा प्रकाशते ।
सूर्यलक्ष्म्याभिविज्ञेयस्तपसेव विवस्वता ॥५५॥

भगवानपि विश्वात्मा शम्भुरेकादशात्मकः ।
ब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः ॥५६॥

न कथं चन गन्तव्यं कुरूणामुत्तरेण वः ।
अन्येषामपि भूतानां नातिक्रामति वै गतिः ॥५७॥

सा हि सोमगिरिर्नाम देवानामपि दुर्गमः ।
तमालोक्य ततः क्षिप्रमुपावर्तितुमर्हथ ॥५८॥

एतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः ।
अभास्करममर्यादं न जानीमस्ततः परम् ॥५९॥

सर्वमेतद्विचेतव्यं यन्मया परिकीर्तितम् ।
यदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः ॥६०॥

ततः कृतं दाशरथेर्महत्प्रियं महत्तरं चापि ततो मम प्रियम् ।
कृतं भविष्यत्यनिलानलोपमा विदेहजा दर्शनजेन कर्मणा ॥६१॥

ततः कृतार्थाः सहिताः सबान्धवा मयार्चिताः सर्वगुणैर्मनोरमैः ।
चरिष्यथोर्वीं प्रतिशान्तशत्रवः सहप्रिया भूतधराः प्लवङ्गमाः ॥६२॥