॥ वाल्मीकि रामायण – किष्किन्धाकाण्ड ॥
॥ vālmīki rāmāyaṇa – kiṣkindhākāṇḍa ॥

॥ सर्ग-२८॥
॥ sarga-28॥

समीक्ष्य विमलं व्योम गतविद्युद्बलाहकम् ।
सारसारवसङ्घुष्टं रम्यज्योत्स्नानुलेपनम् ॥१॥
samīkṣya vimalaṃ vyoma gatavidyudbalāhakam ।
sārasāravasaṅghuṣṭaṃ ramyajyotsnānulepanam ॥1॥

समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसङ्ग्रहम् ।
अत्यर्थमसतां मार्गमेकान्तगतमानसम् ॥२॥
samṛddhārthaṃ ca sugrīvaṃ mandadharmārthasaṅgraham ।
atyarthamasatāṃ mārgamekāntagatamānasam ॥2॥

निवृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा ।
प्राप्तवन्तमभिप्रेतान्सर्वानेव मनोरथान् ॥३॥
nivṛttakāryaṃ siddhārthaṃ pramadābhirataṃ sadā ।
prāptavantamabhipretānsarvāneva manorathān ॥3॥

स्वां च पात्नीमभिप्रेतां तारां चापि समीप्सिताम् ।
विहरन्तमहोरात्रं कृतार्थं विगतज्वलम् ॥४॥
svāṃ ca pātnīmabhipretāṃ tārāṃ cāpi samīpsitām ।
viharantamahorātraṃ kṛtārthaṃ vigatajvalam ॥4॥

क्रीडन्तमिव देवेशं नन्दनेऽप्सरसां गणैः ।
मन्त्रिषु न्यस्तकार्यं च मन्त्रिणामनवेक्षकम् ॥५॥
krīḍantamiva deveśaṃ nandane’psarasāṃ gaṇaiḥ ।
mantriṣu nyastakāryaṃ ca mantriṇāmanavekṣakam ॥5॥

उत्सन्नराज्यसन्देशं कामवृत्तमवस्थितम् ।
निश्चितार्थोऽर्थतत्त्वज्ञः कालधर्मविशेषवित् ॥६॥
utsannarājyasandeśaṃ kāmavṛttamavasthitam ।
niścitārtho’rthatattvajñaḥ kāladharmaviśeṣavit ॥6॥

प्रसाद्य वाक्यैर्मधुरैर्हेतुमद्भिर्मनोरमैः ।
वाक्यविद्वाक्यतत्त्वज्ञं हरीशं मारुतात्मजः ॥७॥
prasādya vākyairmadhurairhetumadbhirmanoramaiḥ ।
vākyavidvākyatattvajñaṃ harīśaṃ mārutātmajaḥ ॥7॥

हितं तथ्यं च पथ्यं च सामधर्मार्थनीतिमत् ।
प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम् ।
हरीश्वरमुपागम्य हनुमान्वाक्यमब्रवीत् ॥८॥
hitaṃ tathyaṃ ca pathyaṃ ca sāmadharmārthanītimat ।
praṇayaprītisaṃyuktaṃ viśvāsakṛtaniścayam ।
harīśvaramupāgamya hanumānvākyamabravīt ॥8॥

राज्यं प्राप्तं यशश्चैव कौली श्रीरभिवर्धिता ।
मित्राणां सङ्ग्रहः शेषस्तद्भवान्कर्तुमर्हति ॥९॥
rājyaṃ prāptaṃ yaśaścaiva kaulī śrīrabhivardhitā ।
mitrāṇāṃ saṅgrahaḥ śeṣastadbhavānkartumarhati ॥9॥

यो हि मित्रेषु कालज्ञः सततं साधु वर्तते ।
तस्य राज्यं च कीर्तिश्च प्रतापश्चाभिवर्धते ॥१०॥
yo hi mitreṣu kālajñaḥ satataṃ sādhu vartate ।
tasya rājyaṃ ca kīrtiśca pratāpaścābhivardhate ॥10॥

यस्य कोशश्च दण्डश्च मित्राण्यात्मा च भूमिप ।
समवेतानि सर्वाणि स राज्यं महदश्नुते ॥११॥
yasya kośaśca daṇḍaśca mitrāṇyātmā ca bhūmipa ।
samavetāni sarvāṇi sa rājyaṃ mahadaśnute ॥11॥

तद्भवान्वृत्तसम्पन्नः स्थितः पथि निरत्यये ।
मित्रार्थमभिनीतार्थं यथावत्कर्तुमर्हति ॥१२॥
tadbhavānvṛttasampannaḥ sthitaḥ pathi niratyaye ।
mitrārthamabhinītārthaṃ yathāvatkartumarhati ॥12॥

यस्तु कालव्यतीतेषु मित्रकार्येषु वर्तते ।
स कृत्वा महतोऽप्यर्थान्न मित्रार्थेन युज्यते ॥१३॥
yastu kālavyatīteṣu mitrakāryeṣu vartate ।
sa kṛtvā mahato’pyarthānna mitrārthena yujyate ॥13॥

क्रियतां राघवस्यैतद्वैदेह्याः परिमार्गणम् ।
तदिदं वीर कार्यं ते कालातीतमरिन्दम ॥१४॥
kriyatāṃ rāghavasyaitadvaidehyāḥ parimārgaṇam ।
tadidaṃ vīra kāryaṃ te kālātītamarindama ॥14॥

न च कालमतीतं ते निवेदयति कालवित् ।
त्वरमाणोऽपि सम्प्राज्ञस्तव राजन्वशानुगः ॥१५॥
na ca kālamatītaṃ te nivedayati kālavit ।
tvaramāṇo’pi samprājñastava rājanvaśānugaḥ ॥15॥

कुलस्य केतुः स्फीतस्य दीर्घबन्धुश्च राघवः ।
अप्रमेयप्रभावश्च स्वयं चाप्रतिमो गुणैः ॥१६॥
kulasya ketuḥ sphītasya dīrghabandhuśca rāghavaḥ ।
aprameyaprabhāvaśca svayaṃ cāpratimo guṇaiḥ ॥16॥

तस्य त्वं कुरु वै कार्यं पूर्वं तेन कृतं तव ।
हरीश्वर हरिश्रेष्ठानाज्ञापयितुमर्हसि ॥१७॥
tasya tvaṃ kuru vai kāryaṃ pūrvaṃ tena kṛtaṃ tava ।
harīśvara hariśreṣṭhānājñāpayitumarhasi ॥17॥

न हि तावद्भवेत्कालो व्यतीतश्चोदनादृते ।
चोदितस्य हि कार्यस्य भवेत्कालव्यतिक्रमः ॥१८॥
na hi tāvadbhavetkālo vyatītaścodanādṛte ।
coditasya hi kāryasya bhavetkālavyatikramaḥ ॥18॥

अकर्तुरपि कार्यस्य भवान्कर्ता हरीश्वर ।
किं पुनः प्रतिकर्तुस्ते राज्येन च धनेन च ॥१९॥
akarturapi kāryasya bhavānkartā harīśvara ।
kiṃ punaḥ pratikartuste rājyena ca dhanena ca ॥19॥

शक्तिमानसि विक्रान्तो वानरर्क्षगणेश्वर ।
कर्तुं दाशरथेः प्रीतिमाज्ञायां किं नु सज्जसे ॥२०॥
śaktimānasi vikrānto vānararkṣagaṇeśvara ।
kartuṃ dāśaratheḥ prītimājñāyāṃ kiṃ nu sajjase ॥20॥

कामं खलु शरैर्शक्तः सुरासुरमहोरगान् ।
वशे दाशरथिः कर्तुं त्वत्प्रतिज्ञां तु काङ्क्षते ॥२१॥
kāmaṃ khalu śarairśaktaḥ surāsuramahoragān ।
vaśe dāśarathiḥ kartuṃ tvatpratijñāṃ tu kāṅkṣate ॥21॥

प्राणत्यागाविशङ्केन कृतं तेन तव प्रियम् ।
तस्य मार्गाम वैदेहीं पृथिव्यामपि चाम्बरे ॥२२॥
prāṇatyāgāviśaṅkena kṛtaṃ tena tava priyam ।
tasya mārgāma vaidehīṃ pṛthivyāmapi cāmbare ॥22॥

न देवा न च गन्धर्वा नासुरा न मरुद्गणाः ।
न च यक्षा भयं तस्य कुर्युः किमुत राक्षसाः ॥२३॥
na devā na ca gandharvā nāsurā na marudgaṇāḥ ।
na ca yakṣā bhayaṃ tasya kuryuḥ kimuta rākṣasāḥ ॥23॥

तदेवं शक्तियुक्तस्य पूर्वं प्रियकृतस्तथा ।
रामस्यार्हसि पिङ्गेश कर्तुं सर्वात्मना प्रियम् ॥२४॥
tadevaṃ śaktiyuktasya pūrvaṃ priyakṛtastathā ।
rāmasyārhasi piṅgeśa kartuṃ sarvātmanā priyam ॥24॥

नाधस्तादवनौ नाप्सु गतिर्नोपरि चाम्बरे ।
कस्य चित्सज्जतेऽस्माकं कपीश्वर तवाज्ञया ॥२५॥

तदाज्ञापय कः किं ते कृते वसतु कुत्र चित् ।
हरयो ह्यप्रधृष्यास्ते सन्ति कोट्यग्रतोऽनघ ॥२६॥

तस्य तद्वचनं श्रुत्वा काले साधुनिवेदितम् ।
सुग्रीवः सत्त्वसम्पन्नश्चकार मतिमुत्तमाम् ॥२७॥

स सन्दिदेशाभिमतं नीलं नित्यकृतोद्यमम् ।
दिक्षु सर्वासु सर्वेषां सैन्यानामुपसङ्ग्रहे ॥२८॥

यथा सेना समग्रा मे यूथपालाश्च सर्वशः ।
समागच्छन्त्यसङ्गेन सेनाग्राणि तथा कुरु ॥२९॥

ये त्वन्तपालाः प्लवगाः शीघ्रगा व्यवसायिनः ।
समानयन्तु ते सैन्यं त्वरिताः शासनान्मम ।
स्वयं चानन्तरं सैन्यं भवानेवानुपश्यतु ॥३०॥

त्रिपञ्चरात्रादूर्ध्वं यः प्राप्नुयान्नेह वानरः ।
तस्य प्राणान्तिको दण्डो नात्र कार्या विचारणा ॥३१॥

हरींश्च वृद्धानुपयातु साङ्गदो भवान्ममाज्ञामधिकृत्य निश्चिताम् ।
इति व्यवस्थां हरिपुङ्गवेश्वरो विधाय वेश्म प्रविवेश वीर्यवान् ॥३२॥