॥ वाल्मीकि रामायण – किष्किन्धाकाण्ड ॥
॥ vālmīki rāmāyaṇa – kiṣkindhākāṇḍa ॥

॥ सर्ग-१८॥
॥ sarga-18॥

इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम् |
परुषं वालिना रामो निहतेन विचेतसा ॥१॥
ityuktaḥ praśritaṃ vākyaṃ dharmārthasahitaṃ hitam |
paruṣaṃ vālinā rāmo nihatena vicetasā ॥1॥

तं निष्प्रभमिवादित्यं मुक्ततोयमिवाम्बुदम् |
उक्तवाक्यं हरिश्रेष्ठमुपशान्तमिवानलम् ॥२॥
ityutaṃ niṣprabhamivādityaṃ muktatoyamivāmbudam |
uktavākyaṃ hariśreṣṭhamupaśāntamivānalam ॥2॥

धर्मार्थगुणसम्पन्नं हरीश्वरमनुत्तमम् |
अधिक्षिप्तस्तदा रामः पश्चाद्वालिनमब्रवीत् ॥३॥
dharmārthaguṇasampannaṃ harīśvaramanuttamam |
adhikṣiptastadā rāmaḥ paścādvālinamabravīt ॥3॥

धर्ममर्थं च कामं च समयं चापि लौकिकम् |
अविज्ञाय कथं बाल्यान्मामिहाद्य विगर्हसे ॥४॥
dharmamarthaṃ ca kāmaṃ ca samayaṃ cāpi laukikam |
avijñāya kathaṃ bālyānmāmihādya vigarhase ॥4॥

अपृष्ट्वा बुद्धिसम्पन्नान्वृद्धानाचार्यसंमतान् |
सौम्य वानरचापल्यात्त्वं मां वक्तुमिहेच्छसि ॥५॥
apṛṣṭvā buddhisampannānvṛddhānācāryasaṃmatān |
saumya vānaracāpalyāttvaṃ māṃ vaktumihecchasi ॥5॥

इक्ष्वाकूणामियं भूमिः सशैलवनकानना |
मृगपक्षिमनुष्याणां निग्रहानुग्रहावपि ॥६॥
ikṣvākūṇāmiyaṃ bhūmiḥ saśailavanakānanā |
mṛgapakṣimanuṣyāṇāṃ nigrahānugrahāvapi ॥6॥

तां पालयति धर्मात्मा भरतः सत्यवागृजुः |
धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः ॥७॥
tāṃ pālayati dharmātmā bharataḥ satyavāgṛjuḥ |
dharmakāmārthatattvajño nigrahānugrahe rataḥ ॥7॥

नयश्च विनयश्चोभौ यस्मिन्सत्यं च सुस्थितम् |
विक्रमश्च यथादृष्टः स राजा देशकालवित् ॥८॥
nayaśca vinayaścobhau yasminsatyaṃ ca susthitam |
vikramaśca yathādṛṣṭaḥ sa rājā deśakālavit ॥8॥

तस्य धर्मकृतादेशा वयमन्ये च पार्थिवाः |
चरामो वसुधां कृत्स्नां धर्मसन्तानमिच्छवः ॥९॥
tasya dharmakṛtādeśā vayamanye ca pārthivāḥ |
carāmo vasudhāṃ kṛtsnāṃ dharmasantānamicchavaḥ ॥9॥

तस्मिन्नृपतिशार्दूले भरते धर्मवत्सले |
पालयत्यखिलां भूमिं कश्चरेद्धर्मनिग्रहम् ॥१०॥
tasminnṛpatiśārdūle bharate dharmavatsale |
pālayatyakhilāṃ bhūmiṃ kaścareddharmanigraham ॥10॥

ते वयं मार्गविभ्रष्टं स्वधर्मे परमे स्थिताः |
भरताज्ञां पुरस्कृत्य निगृह्णीमो यथाविधि ॥११॥
te vayaṃ mārgavibhraṣṭaṃ svadharme parame sthitāḥ |
bharatājñāṃ puraskṛtya nigṛhṇīmo yathāvidhi ॥11॥

त्वं तु सङ्क्लिष्टधर्मा च कर्मणा च विगर्हितः |
कामतन्त्रप्रधानश्च न स्थितो राजवर्त्मनि ॥१२॥
tvaṃ tu saṅkliṣṭadharmā ca karmaṇā ca vigarhitaḥ |
kāmatantrapradhānaśca na sthito rājavartmani ॥12॥

ज्येष्ठो भ्राता पिता चैव यश्च विद्यां प्रयच्छति |
त्रयस्ते पितरो ज्ञेया धर्म्ये चेत्पथि वर्तिनः ॥१३॥
jyeṣṭho bhrātā pitā caiva yaśca vidyāṃ prayacchati |
trayaste pitaro jñeyā dharmye cetpathi vartinaḥ ॥13॥

यवीयानात्मनः पुत्रः शिष्यश्चापि गुणोदितः |
पुत्रवत्ते त्रयश्चिन्त्या धर्मश्चेदत्र कारणम् ॥१४॥
yavīyānātmanaḥ putraḥ śiṣyaścāpi guṇoditaḥ |
putravatte trayaścintyā dharmaścedatra kāraṇam ॥14॥

सूक्ष्मः परमदुर्ज्ञेयः सतां धर्मः प्लवङ्गम |
हृदिस्थः सर्वभूतानामात्मा वेद शुभाशुभम् ॥१५॥
sūkṣmaḥ paramadurjñeyaḥ satāṃ dharmaḥ plavaṅgama |
hṛdisthaḥ sarvabhūtānāmātmā veda śubhāśubham ॥15॥

चपलश्चपलैः सार्धं वानरैरकृतात्मभिः |
जात्यन्ध इव जात्यन्धैर्मन्त्रयन्द्रक्ष्यसे नु किम् ॥१६॥
capalaścapalaiḥ sārdhaṃ vānarairakṛtātmabhiḥ |
jātyandha iva jātyandhairmantrayandrakṣyase nu kim ॥16॥

अहं तु व्यक्ततामस्य वचनस्य ब्रवीमि ते |
न हि मां केवलं रोषात्त्वं विगर्हितुमर्हसि ॥१७॥
ahaṃ tu vyaktatāmasya vacanasya bravīmi te |
na hi māṃ kevalaṃ roṣāttvaṃ vigarhitumarhasi ॥17॥

तदेतत्कारणं पश्य यदर्थं त्वं मया हतः |
भ्रातुर्वर्तसि भार्यायां त्यक्त्वा धर्मं सनातनम् ॥१८॥
tadetatkāraṇaṃ paśya yadarthaṃ tvaṃ mayā hataḥ |
bhrāturvartasi bhāryāyāṃ tyaktvā dharmaṃ sanātanam ॥18॥

अस्य त्वं धरमाणस्य सुग्रीवस्य महात्मनः |
रुमायां वर्तसे कामात्स्नुषायां पापकर्मकृत् ॥१९॥
asya tvaṃ dharamāṇasya sugrīvasya mahātmanaḥ |
rumāyāṃ vartase kāmātsnuṣāyāṃ pāpakarmakṛt ॥19॥

तद्व्यतीतस्य ते धर्मात्कामवृत्तस्य वानर |
भ्रातृभार्याभिमर्शेऽस्मिन्दण्डोऽयं प्रतिपादितः ॥२०॥
tadvyatītasya te dharmātkāmavṛttasya vānara |
bhrātṛbhāryābhimarśe’smindaṇḍo’yaṃ pratipāditaḥ ॥20॥

न हि धर्मविरुद्धस्य लोकवृत्तादपेयुषः |
दण्डादन्यत्र पश्यामि निग्रहं हरियूथप ॥२१॥

औरसीं भगिनीं वापि भार्यां वाप्यनुजस्य यः |
प्रचरेत नरः कामात्तस्य दण्डो वधः स्मृतः ॥२२॥

भरतस्तु महीपालो वयं त्वादेशवर्तिनः |
त्वं च धर्मादतिक्रान्तः कथं शक्यमुपेक्षितुम् ॥२३॥

गुरुधर्मव्यतिक्रान्तं प्राज्ञो धर्मेण पालयन् |
भरतः कामवृत्तानां निग्रहे पर्यवस्थितः ॥२४॥

वयं तु भरतादेशं विधिं कृत्वा हरीश्वर |
त्वद्विधान्भिन्नमर्यादान्नियन्तुं पर्यवस्थिताः ॥२५॥

सुग्रीवेण च मे सख्यं लक्ष्मणेन यथा तथा |
दारराज्यनिमित्तं च निःश्रेयसि रतः स मे ॥२६॥

प्रतिज्ञा च मया दत्ता तदा वानरसंनिधौ |
प्रतिज्ञा च कथं शक्या मद्विधेनानवेक्षितुम् ॥२७॥

तदेभिः कारणैः सर्वैर्महद्भिर्धर्मसंहितैः |
शासनं तव यद्युक्तं तद्भवाननुमन्यताम् ॥२८॥

सर्वथा धर्म इत्येव द्रष्टव्यस्तव निग्रहः |
वयस्यस्योपकर्तव्यं धर्ममेवानुपश्यता ॥२९॥

राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः |
निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥३०॥

आर्येण मम मान्धात्रा व्यसनं घोरमीप्सितम् |
श्रमणेन कृते पापे यथा पापं कृतं त्वया ॥३१॥

अन्यैरपि कृतं पापं प्रमत्तैर्वसुधाधिपैः |
प्रायश्चित्तं च कुर्वन्ति तेन तच्छाम्यते रजः ॥३२॥

तदलं परितापेन धर्मतः परिकल्पितः |
वधो वानरशार्दूल न वयं स्ववशे स्थिताः ॥३३॥

वागुराभिश्च पाशैश्च कूटैश्च विविधैर्नराः |
प्रतिच्छन्नाश्च दृश्याश्च गृह्णन्ति सुबहून्मृगान् |
प्रधावितान्वा वित्रस्तान्विस्रब्धानतिविष्ठितान् ॥३४॥

प्रमत्तानप्रमत्तान्वा नरा मांसार्थिनो भृशम् |
विध्यन्ति विमुखांश्चापि न च दोषोऽत्र विद्यते ॥३५॥

यान्ति राजर्षयश्चात्र मृगयां धर्मकोविदाः |
तस्मात्त्वं निहतो युद्धे मया बाणेन वानर |
अयुध्यन्प्रतियुध्यन्वा यस्माच्छाखामृगो ह्यसि ॥३६॥

दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च |
राजानो वानरश्रेष्ठ प्रदातारो न संशयः ॥३७॥

तान्न हिंस्यान्न चाक्रोशेन्नाक्षिपेन्नाप्रियं वदेत् |
देवा मानुषरूपेण चरन्त्येते महीतले ॥३८॥

त्वं तु धर्ममविज्ञाय केवलं रोषमास्थितः |
प्रदूषयसि मां धर्मे पितृपैतामहे स्थितम् ॥३९॥

एवमुक्तस्तु रामेण वाली प्रव्यथितो भृशम् |
प्रत्युवाच ततो रामं प्राञ्जलिर्वानरेश्वरः ॥४०॥

यत्त्वमात्थ नरश्रेष्ठ तदेवं नात्र संशयः |
प्रतिवक्तुं प्रकृष्टे हि नापकृष्टस्तु शक्नुयात् ॥४१॥

यदयुक्तं मया पूर्वं प्रमादाद्वाक्यमप्रियम् |
तत्रापि खलु मे दोषं कर्तुं नार्हसि राघव ॥४२॥

त्वं हि दृष्टार्थतत्त्वज्ञः प्रजानां च हिते रतः |
कार्यकारणसिद्धौ ते प्रसन्ना बुद्धिरव्यया ॥४३॥

मामप्यवगतं धर्माद्व्यतिक्रान्तपुरस्कृतम् |
धर्मसंहितया वाचा धर्मज्ञ परिपालय ॥४४॥

बाष्पसंरुद्धकण्ठस्तु वाली सार्तरवः शनैः |
उवाच रामं सम्प्रेक्ष्य पङ्कलग्न इव द्विपः ॥४५॥

न त्वात्मानमहं शोचे न तारां नापि बान्धवान् |
यथा पुत्रं गुणश्रेष्ठमङ्गदं कनकाङ्गदम् ॥४६॥

स ममादर्शनाद्दीनो बाल्यात्प्रभृति लालितः |
तटाक इव पीताम्बुरुपशोषं गमिष्यति ॥४७॥

सुग्रीवे चाङ्गदे चैव विधत्स्व मतिमुत्तमाम् |
त्वं हि शास्ता च गोप्ता च कार्याकार्यविधौ स्थितः ॥४८॥

या ते नरपते वृत्तिर्भरते लक्ष्मणे च या |
सुग्रीवे चाङ्गदे राजंस्तां चिन्तयितुमर्हसि ॥४९॥

मद्दोषकृतदोषां तां यथा तारां तपस्विनीम् |
सुग्रीवो नावमन्येत तथावस्थातुमर्हसि ॥५०॥

त्वया ह्यनुगृहीतेन शक्यं राज्यमुपासितुम् |
त्वद्वशे वर्तमानेन तव चित्तानुवर्तिना ॥५१॥

स तमाश्वासयद्रामो वालिनं व्यक्तदर्शनम् ॥५२॥

न वयं भवता चिन्त्या नाप्यात्मा हरिसत्तम |
वयं भवद्विशेषेण धर्मतः कृतनिश्चयाः ॥५३॥

दण्ड्ये यः पातयेद्दण्डं दण्ड्यो यश्चापि दण्ड्यते |
कार्यकारणसिद्धार्थावुभौ तौ नावसीदतः ॥५४॥

तद्भवान्दण्डसंयोगादस्माद्विगतकल्मषः |
गतः स्वां प्रकृतिं धर्म्यां धर्मदृष्ट्तेन वर्त्मना ॥५५॥

स तस्य वाक्यं मधुरं महात्मनः समाहितं धर्मपथानुवर्तिनः |
निशम्य रामस्य रणावमर्दिनो वचः सुयुक्तं निजगाद वानरः ॥५६॥

शराभितप्तेन विचेतसा मया प्रदूषितस्त्वं यदजानता प्रभो |
इदं महेन्द्रोपमभीमविक्रम प्रसादितस्त्वं क्षम मे महीश्वर ॥५७॥