|| वाल्मीकि रामायण – किष्किन्धाकाण्ड ||
|| vālmīki rāmāyaṇa – kiṣkindhākāṇḍa ||

|| सर्ग-१५||
|| sarga-15||

अथ तस्य निनादं तं सुग्रीवस्य महात्मनः |
शुश्रावान्तःपुरगतो वाली भ्रातुरमर्षणः ||१||
atha tasya ninādaṃ taṃ sugrīvasya mahātmanaḥ |
śuśrāvāntaḥpuragato vālī bhrāturamarṣaṇaḥ ||1||

श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम् |
मदश्चैकपदे नष्टः क्रोधश्चापतितो महान् ||२||
śrutvā tu tasya ninadaṃ sarvabhūtaprakampanam |
madaścaikapade naṣṭaḥ krodhaścāpatito mahān ||2||

स तु रोषपरीताङ्गो वाली सन्ध्यातपप्रभः |
उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः ||३||
sa tu roṣaparītāṅgo vālī sandhyātapaprabhaḥ |
uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ ||3||

वाली दंष्ट्राकरालस्तु क्रोधाद्दीप्ताग्निसंनिभः |
भात्युत्पतितपद्माभः समृणाल इव ह्रदः ||४||
vālī daṃṣṭrākarālastu krodhāddīptāgnisaṃnibhaḥ |
bhātyutpatitapadmābhaḥ samṛṇāla iva hradaḥ ||4||

शब्दं दुर्मर्षणं श्रुत्वा निष्पपात ततो हरिः |
वेगेन चरणन्यासैर्दारयन्निव मेदिनीम् ||५||
śabdaṃ durmarṣaṇaṃ śrutvā niṣpapāta tato hariḥ |
vegena caraṇanyāsairdārayanniva medinīm ||5||

तं तु तारा परिष्वज्य स्नेहाद्दर्शितसौहृदा |
उवाच त्रस्तसम्भ्रान्ता हितोदर्कमिदं वचः ||६||
taṃ tu tārā pariṣvajya snehāddarśitasauhṛdā |
uvāca trastasambhrāntā hitodarkamidaṃ vacaḥ ||6||

साधु क्रोधमिमं वीर नदी वेगमिवागतम् |
शयनादुत्थितः काल्यं त्यज भुक्ताम् इव स्रजम् ||७||
sādhu krodhamimaṃ vīra nadī vegamivāgatam |
śayanādutthitaḥ kālyaṃ tyaja bhuktām iva srajam ||7||

सहसा तव निष्क्रामो मम तावन्न रोचते |
श्रूयतामभिधास्यामि यन्निमित्तं निवार्यसे ||८||

पूर्वमापतितः क्रोधात्स त्वामाह्वयते युधि |
निष्पत्य च निरस्तस्ते हन्यमानो दिशो गतः ||९||

त्वया तस्य निरस्तस्य पीडितस्य विशेषतः |
इहैत्य पुनराह्वानं शङ्कां जनयतीव मे ||१०||

दर्पश्च व्यवसायश्च यादृशस्तस्य नर्दतः |
निनादस्य च संरम्भो नैतदल्पं हि कारणम् ||११||

नासहायमहं मन्ये सुग्रीवं तमिहागतम् |
अवष्टब्धसहायश्च यमाश्रित्यैष गर्जति ||१२||

प्रकृत्या निपुणश्चैव बुद्धिमांश्चैव वानरः |
अपरीक्षितवीर्येण सुग्रीवः सह नैष्यति ||१३||

पूर्वमेव मया वीर श्रुतं कथयतो वचः |
अङ्गदस्य कुमारस्य वक्ष्यामि त्वा हितं वचः ||१४||

तव भ्रातुर्हि विख्यातः सहायो रणकर्कशः |
रामः परबलामर्दी युगान्ताग्निरिवोत्थितः ||१५||

निवासवृक्षः साधूनामापन्नानां परा गतिः |
आर्तानां संश्रयश्चैव यशसश्चैकभाजनम् ||१६||

ज्ञानविज्ञानसम्पन्नो निदेशो निरतः पितुः |
धातूनामिव शैलेन्द्रो गुणानामाकरो महान् ||१७||

तत्क्षमं न विरोधस्ते सह तेन महात्मना |
दुर्जयेनाप्रमेयेन रामेण रणकर्मसु ||१८||

शूर वक्ष्यामि ते किं चिन्न चेच्छाम्यभ्यसूयितुम् |
श्रूयतां क्रियतां चैव तव वक्ष्यामि यद्धितम् ||१९||

यौवराज्येन सुग्रीवं तूर्णं साध्वभिषेचय |
विग्रहं मा कृथा वीर भ्रात्रा राजन्बलीयसा ||२०||

अहं हि ते क्षमं मन्ये तव रामेण सौहृदम् |
सुग्रीवेण च सम्प्रीतिं वैरमुत्सृज्य दूरतः ||२१||

लालनीयो हि ते भ्राता यवीयानेष वानरः |
तत्र वा सन्निहस्थो वा सर्वथा बन्धुरेव ते ||२२||

यदि ते मत्प्रियं कार्यं यदि चावैषि मां हिताम् |
याच्यमानः प्रयत्नेन साधु वाक्यं कुरुष्व मे ||२३||