|| वाल्मीकि रामायण – किष्किन्धाकाण्ड ||
|| vālmīki rāmāyaṇa – kiṣkindhākāṇḍa ||

|| सर्ग-१२ ||
|| sarga-12 ||

एतच्च वचनं श्रुत्वा सुग्रीवेण सुभाषितम् |
प्रत्ययार्थं महातेजा रामो जग्राह कार्मुकम् ||१||
etacca vacanaṃ śrutvā sugrīveṇa subhāṣitam |
pratyayārthaṃ mahātejā rāmo jagrāha kārmukam ||1||

स गृहीत्वा धनुर्घोरं शरमेकं च मानदः |
सालानुद्दिश्य चिक्षेप ज्यास्वनैः पूरयन्दिशः ||२||
sa gṛhītvā dhanurghoraṃ śaramekaṃ ca mānadaḥ |
sālānuddiśya cikṣepa jyāsvanaiḥ pūrayandiśaḥ ||2||

स विसृष्टो बलवता बाणः स्वर्णपरिष्कृतः |
भित्त्वा सालान्गिरिप्रस्थे सप्त भूमिं विवेश ह ||३||
sa visṛṣṭo balavatā bāṇaḥ svarṇapariṣkṛtaḥ |
bhittvā sālāngiriprasthe sapta bhūmiṃ viveśa ha ||3||

प्रविष्टस्तु मुहूर्तेन रसां भित्त्वा महाजवः |
निष्पत्य च पुनस्तूर्णं स्वतूणीं प्रविवेश ह ||४||
praviṣṭastu muhūrtena rasāṃ bhittvā mahājavaḥ |
niṣpatya ca punastūrṇaṃ svatūṇīṃ praviveśa ha ||4||

तान्दृष्ट्वा सप्त निर्भिन्नान्सालान्वानरपुङ्गवः |
रामस्य शरवेगेन विस्मयं परमं गतः ||५||
tāndṛṣṭvā sapta nirbhinnānsālānvānarapuṅgavaḥ |
rāmasya śaravegena vismayaṃ paramaṃ gataḥ ||5||

स मूर्ध्ना न्यपतद्भूमौ प्रलम्बीकृतभूषणः |
सुग्रीवः परमप्रीतो राघवाय कृताञ्जलिः ||६||
sa mūrdhnā nyapatadbhūmau pralambīkṛtabhūṣaṇaḥ |
sugrīvaḥ paramaprīto rāghavāya kṛtāñjaliḥ ||6||

इदं चोवाच धर्मज्ञं कर्मणा तेन हर्षितः |
रामं सर्वास्त्रविदुषां श्रेष्ठं शूरमवस्थितम् ||७||
idaṃ covāca dharmajñaṃ karmaṇā tena harṣitaḥ |
rāmaṃ sarvāstraviduṣāṃ śreṣṭhaṃ śūramavasthitam ||7||

सेन्द्रानपि सुरान्सर्वांस्त्वं बाणैः पुरुषर्षभ |
समर्थः समरे हन्तुं किं पुनर्वालिनं प्रभो ||८||
sendrānapi surānsarvāṃstvaṃ bāṇaiḥ puruṣarṣabha |
samarthaḥ samare hantuṃ kiṃ punarvālinaṃ prabho ||8||

येन सप्त महासाला गिरिर्भूमिश्च दारिताः |
बाणेनैकेन काकुत्स्थ स्थाता ते को रणाग्रतः ||९||
yena sapta mahāsālā girirbhūmiśca dāritāḥ |
bāṇenaikena kākutstha sthātā te ko raṇāgrataḥ ||9||

अद्य मे विगतः शोकः प्रीतिरद्य परा मम |
सुहृदं त्वां समासाद्य महेन्द्रवरुणोपमम् ||१०||
adya me vigataḥ śokaḥ prītiradya parā mama |
suhṛdaṃ tvāṃ samāsādya mahendravaruṇopamam ||10||

तमद्यैव प्रियार्थं मे वैरिणं भ्रातृरूपिणम् |
वालिनं जहि काकुत्स्थ मया बद्धोऽयमञ्जलिः ||११||
tamadyaiva priyārthaṃ me vairiṇaṃ bhrātṛrūpiṇam |
vālinaṃ jahi kākutstha mayā baddho’yamañjaliḥ ||11||

ततो रामः परिष्वज्य सुग्रीवं प्रियदर्शनम् |
प्रत्युवाच महाप्राज्ञो लक्ष्मणानुमतं वचः ||१२||
tato rāmaḥ pariṣvajya sugrīvaṃ priyadarśanam |
pratyuvāca mahāprājño lakṣmaṇānumataṃ vacaḥ ||12||

अस्माद्गच्छाम किष्किन्धां क्षिप्रं गच्छ त्वमग्रतः |
गत्वा चाह्वय सुग्रीव वालिनं भ्रातृगन्धिनम् ||१३||
asmādgacchāma kiṣkindhāṃ kṣipraṃ gaccha tvamagrataḥ |
gatvā cāhvaya sugrīva vālinaṃ bhrātṛgandhinam ||13||

सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम् |
वृक्षैरात्मानमावृत्य व्यतिष्ठन्गहने वने ||१४||
sarve te tvaritaṃ gatvā kiṣkindhāṃ vālinaḥ purīm |
vṛkṣairātmānamāvṛtya vyatiṣṭhangahane vane ||14||

सुग्रीवो व्यनदद्घोरं वालिनो ह्वानकारणात् |
गाढं परिहितो वेगान्नादैर्भिन्दन्निवाम्बरम् ||१५||
sugrīvo vyanadadghoraṃ vālino hvānakāraṇāt |
gāḍhaṃ parihito vegānnādairbhindannivāmbaram ||15||

तं श्रुत्वा निनदं भ्रातुः क्रुद्धो वाली महाबलः |
निष्पपात सुसंरब्धो भास्करोऽस्ततटादिव ||१६||
taṃ śrutvā ninadaṃ bhrātuḥ kruddho vālī mahābalaḥ |
niṣpapāta susaṃrabdho bhāskaro’stataṭādiva ||16||

ततः सुतुमुलं युद्धं वालिसुग्रीवयोरभूत् |
गगने ग्रहयोर्घोरं बुधाङ्गारकयोरिव ||१७||
tataḥ sutumulaṃ yuddhaṃ vālisugrīvayorabhūt |
gagane grahayorghoraṃ budhāṅgārakayoriva ||17||

तलैरशनिकल्पैश्च वज्रकल्पैश्च मुष्टिभिः |
जघ्नतुः समरेऽन्योन्यं भ्रातरौ क्रोधमूर्छितौ ||१८||
talairaśanikalpaiśca vajrakalpaiśca muṣṭibhiḥ |
jaghnatuḥ samare’nyonyaṃ bhrātarau krodhamūrchitau ||18||

ततो रामो धनुष्पाणिस्तावुभौ समुदीक्ष्य तु |
अन्योन्यसदृशौ वीरावुभौ देवाविवाश्विनौ ||१९||
tato rāmo dhanuṣpāṇistāvubhau samudīkṣya tu |
anyonyasadṛśau vīrāvubhau devāvivāśvinau ||19||

यन्नावागच्छत्सुग्रीवं वालिनं वापि राघवः |
ततो न कृतवान्बुद्धिं मोक्तुमन्तकरं शरम् ||२०||
yannāvāgacchatsugrīvaṃ vālinaṃ vāpi rāghavaḥ |
tato na kṛtavānbuddhiṃ moktumantakaraṃ śaram ||20||

एतस्मिन्नन्तरे भग्नः सुग्रीवस्तेन वालिना |
अपश्यन्राघवं नाथमृश्यमूकं प्रदुद्रुवे ||२१||
etasminnantare bhagnaḥ sugrīvastena vālinā |
apaśyanrāghavaṃ nāthamṛśyamūkaṃ pradudruve ||21||

क्लान्तो रुधिरसिक्ताङ्गः प्रहारैर्जर्जरीकृतः |
वालिनाभिद्रुतः क्रोधात्प्रविवेश महावनम् ||२२||
klānto rudhirasiktāṅgaḥ prahārairjarjarīkṛtaḥ |
vālinābhidrutaḥ krodhātpraviveśa mahāvanam ||22||

तं प्रविष्टं वनं दृष्ट्वा वाली शापभयात्ततः |
मुक्तो ह्यसि त्वमित्युक्त्वा स निवृत्तो महाबलः ||२३||

राघवोऽपि सह भ्रात्रा सह चैव हनूमता |
तदेव वनमागच्छत्सुग्रीवो यत्र वानरः ||२४||

तं समीक्ष्यागतं रामं सुग्रीवः सहलक्ष्मणम् |
ह्रीमान्दीनमुवाचेदं वसुधाम् अवलोकयन् ||२५||

आह्वयस्वेति मामुक्त्वा दर्शयित्वा च विक्रमम् |
वैरिणा घातयित्वा च किमिदानीं त्वया कृतम् ||२६||

तामेव वेलां वक्तव्यं त्वया राघव तत्त्वतः |
वालिनं न निहन्मीति ततो नाहमितो व्रजे ||२७||

तस्य चैवं ब्रुवाणस्य सुग्रीवस्य महात्मनः |
करुणं दीनया वाचा राघवः पुनरब्रवीत् ||२८||

सुग्रीव श्रूयतां तातः क्रोधश्च व्यपनीयताम् |
कारणं येन बाणोऽयं न मया स विसर्जितः ||२९||

अलङ्कारेण वेषेण प्रमाणेन गतेन च |
त्वं च सुग्रीव वाली च सदृशौ स्थः परस्परम् ||३०||

स्वरेण वर्चसा चैव प्रेक्षितेन च वानर |
विक्रमेण च वाक्यैश्च व्यक्तिं वां नोपलक्षये ||३१||

ततोऽहं रूपसादृश्यान्मोहितो वानरोत्तम |
नोत्सृजामि महावेगं शरं शत्रुनिबर्हणम् ||३२||

एतन्मुहूर्ते तु मया पश्य वालिनमाहवे |
निरस्तमिषुणैकेन वेष्टमानं महीतले ||३३||

अभिज्ञानं कुरुष्व त्वमात्मनो वानरेश्वर |
येन त्वामभिजानीयां द्वन्द्वयुद्धमुपागतम् ||३४||

गजपुष्पीमिमां फुल्लामुत्पाट्य शुभलक्षणाम् |
कुरु लक्ष्मण कण्ठेऽस्य सुग्रीवस्य महात्मनः ||३५||

ततो गिरितटे जातामुत्पाट्य कुसुमायुताम् |
लक्ष्मणो गजपुष्पीं तां तस्य कण्ठे व्यसर्जयत् ||३६||

स तथा शुशुभे श्रीमाँल्लतया कण्ठसक्तया |
मालयेव बलाकानां ससन्ध्य इव तोयदः ||३७||

विभ्राजमानो वपुषा रामवाक्यसमाहितः |
जगाम सह रामेण किष्किन्धां वालिपालिताम् ||३८||