|| वाल्मीकि रामायण – किष्किन्धाकाण्ड ||
|| vālmīki rāmāyaṇa – kiṣkindhākāṇḍa ||
|| सर्ग-११||
|| sarga-11||
रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम् |
सुग्रीवः पूजयां चक्रे राघवं प्रशशंस च || १||
असंशयं प्रज्वलितैस्तीक्ष्णैर्मर्मातिगैः शरैः |
त्वं दहेः कुपितो लोकान्युगान्त इव भास्करः || २||
वालिनः पौरुषं यत्तद्यच्च वीर्यं धृतिश्च या |
तन्ममैकमनाः श्रुत्वा विधत्स्व यदनन्तरम् || ३||
समुद्रात्पश्चिमात्पूर्वं दक्षिणादपि चोत्तरम् |
क्रामत्यनुदिते सूर्ये वाली व्यपगतक्लमः || ४||
अग्राण्यारुह्य शैलानां शिखराणि महान्त्यपि |
ऊर्ध्वमुत्क्षिप्य तरसा प्रतिगृह्णाति वीर्यवान् || ५||
बहवः सारवन्तश्च वनेषु विविधा द्रुमाः |
वालिना तरसा भग्ना बलं प्रथयतात्मनः || ६||
महिषो दुन्दुभिर्नाम कैलासशिखरप्रभः |
बलं नागसहस्रस्य धारयामास वीर्यवान् || ७||
वीर्योत्सेकेन दुष्टात्मा वरदानाच्च मोहितः |
जगाम स महाकायः समुद्रं सरितां पतिम् || ८||
ऊर्मिमन्तमतिक्रम्य सागरं रत्नसञ्चयम् |
मम युद्धं प्रयच्छेति तमुवाच महार्णवम् || ९||
ततः समुद्रो धर्मात्मा समुत्थाय महाबलः |
अब्रवीद्वचनं राजन्नसुरं कालचोदितम् || १०||
समर्थो नास्मि ते दातुं युद्धं युद्धविशारद |
श्रूयतामभिधास्यामि यस्ते युद्धं प्रदास्यति || ११||
शैलराजो महारण्ये तपस्विशरणं परम् |
शङ्करश्वशुरो नाम्ना हिमवानिति विश्रुतः || १२||
गुहा प्रस्रवणोपेतो बहुकन्दरनिर्झरः |
स समर्थस्तव प्रीतिमतुलां कर्तुमाहवे || १३||
तं भीतमिति विज्ञाय समुद्रमसुरोत्तमः |
हिमवद्वनमागच्छच्छरश्चापादिव च्युतः || १४||
ततस्तस्य गिरेः श्वेता गजेन्द्रविपुलाः शिलाः |
चिक्षेप बहुधा भूमौ दुन्दुभिर्विननाद च || १५||
ततः श्वेताम्बुदाकारः सौम्यः प्रीतिकराकृतिः |
हिमवानब्रवीद्वाक्यं स्व एव शिखरे स्थितः || १६||
क्लेष्टुमर्हसि मां न त्वं दुन्दुभे धर्मवत्सल |
रणकर्मस्वकुशलस्तपस्विशरणं ह्यहम् || १७||
तस्य तद्वचनं श्रुत्वा गिरिराजस्य धीमतः |
उवाच दुन्दुभिर्वाक्यं क्रोधात्संरक्तलोचनः || १८||
यदि युद्धेऽसमर्थस्त्वं मद्भयाद्वा निरुद्यमः |
तमाचक्ष्व प्रदद्यान्मे योऽद्य युद्धं युयुत्सतः || १९||
हिमवानब्रवीद्वाक्यं श्रुत्वा वाक्यविशारदः |
अनुक्तपूर्वं धर्मात्मा क्रोधात्तमसुरोत्तमम् || २०||
वाली नाम महाप्राज्ञः शक्रतुल्यपराक्रमः |
अध्यास्ते वानरः श्रीमान्किष्किन्धामतुलप्रभाम् || २१||
स समर्थो महाप्राज्ञस्तव युद्धविशारदः |
द्वन्द्वयुद्धं महद्दातुं नमुचेरिव वासवः || २२||
तं शीघ्रमभिगच्छ त्वं यदि युद्धमिहेच्छसि |
स हि दुर्धर्षणो नित्यं शूरः समरकर्मणि || २३||
श्रुत्वा हिमवतो वाक्यं क्रोधाविष्टः स दुन्दुभिः |
जगाम तां पुरीं तस्य किष्किन्धां वालिनस्तदा || २४||
धारयन्माहिषं रूपं तीक्ष्णशृङ्गो भयावहः |
प्रावृषीव महामेघस्तोयपूर्णो नभस्तले || २५||
ततस्तु द्वारमागम्य किष्किन्धाया महाबलः |
ननर्द कम्पयन्भूमिं दुन्दुभिर्दुन्दुभिर्यथा || २६||
समीपजान्द्रुमान्भञ्जन्वसुधां दारयन्खुरैः |
विषाणेनोल्लेखन्दर्पात्तद्द्वारं द्विरदो यथा || २७||
अन्तःपुरगतो वाली श्रुत्वा शब्दममर्षणः |
निष्पपात सह स्त्रीभिस्ताराभिरिव चन्द्रमाः || २८||
मितं व्यक्ताक्षरपदं तमुवाच स दुन्दुभिम् |
हरीणामीश्वरो वाली सर्वेषां वनचारिणाम् || २९||
किमर्थं नगरद्वारमिदं रुद्ध्वा विनर्दसि |
दुन्दुभे विदितो मेऽसि रक्ष प्राणान्महाबल || ३०||
तस्य तद्वचनं श्रुत्वा वानरेन्द्रस्य धीमतः |
उवाच दुन्दुभिर्वाक्यं क्रोधात्संरक्तलोचनः || ३१||
न त्वं स्त्रीसंनिधौ वीर वचनं वक्तुमर्हसि |
मम युद्धं प्रयच्छ त्वं ततो ज्ञास्यामि ते बलम् || ३२||
अथ वा धारयिष्यामि क्रोधमद्य निशामिमाम् |
गृह्यतामुदयः स्वैरं कामभोगेषु वानर || ३३||
यो हि मत्तं प्रमत्तं वा सुप्तं वा रहितं भृशम् |
हन्यात्स भ्रूणहा लोके त्वद्विधं मदमोहितम् || ३४||
स प्रहस्याब्रवीन्मन्दं क्रोधात्तमसुरोत्तमम् |
विसृज्य ताः स्त्रियः सर्वास्तारा प्रभिड़्तिकास्तदा || ३५||
मत्तोऽयमिति मा मंस्था यद्यभीतोऽसि संयुगे |
मदोऽयं सम्प्रहारेऽस्मिन्वीरपानं समर्थ्यताम् || ३६||
तमेवमुक्त्वा सङ्क्रुद्धो मालामुत्क्षिप्य काञ्चनीम् |
पित्रा दत्तां महेन्द्रेण युद्धाय व्यवतिष्ठत || ३७||
विषाणयोर्गृहीत्वा तं दुन्दुभिं गिरिसंनिभम् |
वाली व्यापातयां चक्रे ननर्द च महास्वनम् || ३८||
युद्धे प्राणहरे तस्मिन्निष्पिष्टो दुन्दुभिस्तदा |
श्रोत्राभ्यामथ रक्तं तु तस्य सुस्राव पात्यतः |
पपात च महाकायः क्षितौ पञ्चत्वमागतः || ३९||
तं तोलयित्वा बाहुभ्यां गतसत्त्वमचेतनम् |
चिक्षेप वेगवान्वाली वेगेनैकेन योजनम् || ४०||
तस्य वेगप्रविद्धस्य वक्त्रात्क्षतजबिन्दवः |
प्रपेतुर्मारुतोत्क्षिप्ता मतङ्गस्याश्रमं प्रति || ४१||
तान्दृष्ट्वा पतितांस्तत्र मुनिः शोणितविप्रुषः |
उत्ससर्ज महाशापं क्षेप्तारं वालिनं प्रति |
इह तेनाप्रवेष्टव्यं प्रविष्टस्य बधो भवेत् || ४२||
स महर्षिं समासाद्य याचते स्म कृताञ्जलिः || ४३||
ततः शापभयाद्भीत ऋश्यमूकं महागिरिम् |
प्रवेष्टुं नेच्छति हरिर्द्रष्टुं वापि नरेश्वर || ४४||
तस्याप्रवेशं ज्ञात्वाहमिदं राम महावनम् |
विचरामि सहामात्यो विषादेन विवर्जितः || ४५||
एषोऽस्थिनिचयस्तस्य दुन्दुभेः सम्प्रकाशते |
वीर्योत्सेकान्निरस्तस्य गिरिकूटनिभो महान् || ४६||
इमे च विपुलाः सालाः सप्त शाखावलम्बिनः |
यत्रैकं घटते वाली निष्पत्रयितुमोजसा || ४७||
एतदस्यासमं वीर्यं मया राम प्रकाशितम् |
कथं तं वालिनं हन्तुं समरे शक्ष्यसे नृप || ४८||
यदि भिन्द्याद्भवान्सालानिमांस्त्वेकेषुणा ततः |
जानीयां त्वां महाबाहो समर्थं वालिनो वधे || ४९||
तस्य तद्वचनं श्रुत्वा सुग्रीवस्य महात्मनः |
राघवो दुन्दुभेः कायं पादाङ्गुष्ठेन लीलया |
तोलयित्वा महाबाहुश्चिक्षेप दशयोजनम् || ५०||
क्षिप्तं दृष्ट्वा ततः कायं सुग्रीवः पुनरब्रवीत् |
लक्ष्मणस्याग्रतो राममिदं वचनमर्थवत् || ५१||
आर्द्रः समांसप्रत्यग्रः क्षिप्तः कायः पुरा सखे |
लघुः सम्प्रति निर्मांसस्तृणभूतश्च राघव |
नात्र शक्यं बलं ज्ञातुं तव वा तस्य वाधिकम् || ५२||