॥ वाल्मीकि रामायण – किष्किन्धाकाण्ड ॥
॥ vālmīki rāmāyaṇa – kiṣkindhākāṇḍa ॥
॥ सर्ग-२९॥
॥ sarga-29॥
गुहां प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः ।
वर्षरात्रोषितो रामः कामशोकाभिपीडितः ॥१॥
guhāṃ praviṣṭe sugrīve vimukte gagane ghanaiḥ ।
varṣarātroṣito rāmaḥ kāmaśokābhipīḍitaḥ ॥1॥
पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम् ।
शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम् ॥२॥
pāṇḍuraṃ gaganaṃ dṛṣṭvā vimalaṃ candramaṇḍalam ।
śāradīṃ rajanīṃ caiva dṛṣṭvā jyotsnānulepanām ॥2॥
कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम् ।
बुद्ध्वा कालमतीतं च मुमोह परमातुरः ॥३॥
kāmavṛttaṃ ca sugrīvaṃ naṣṭāṃ ca janakātmajām ।
buddhvā kālamatītaṃ ca mumoha paramāturaḥ ॥3॥
स तु संज्ञामुपागम्य मुहूर्तान्मतिमान्पुनः ।
मनःस्थामपि वैदेहीं चिन्तयामास राघवः ॥४॥
sa tu saṃjñāmupāgamya muhūrtānmatimānpunaḥ ।
manaḥsthāmapi vaidehīṃ cintayāmāsa rāghavaḥ ॥4॥
आसीनः पर्वतस्याग्रे हेमधातुविभूषिते ।
शारदं गगनं दृष्ट्वा जगाम मनसा प्रियाम् ॥५॥
āsīnaḥ parvatasyāgre hemadhātuvibhūṣite ।
śāradaṃ gaganaṃ dṛṣṭva jagāma manasā priyām ॥5॥
दृष्ट्वा च विमलं व्योम गतविद्युद्बलाहकम् ।
सारसारवसङ्घुष्टं विललापार्तया गिरा ॥६॥
dṛṣṭvā ca vimalaṃ vyoma gatavidyudbalāhakam ।
sārasāravasaṅghuṣṭaṃ vilalāpārtayā girā ॥6॥
सारसारवसंनादैः सारसारवनादिनी ।
याश्रमे रमते बाला साद्य मे रमते कथम् ॥७॥
sārasāravasaṃnādaiḥ sārasāravanādinī ।
yāśrame ramate bālā sādya me ramate katham ॥7॥
पुष्पितांश्चासनान्दृष्ट्वा काञ्चनानिव निर्मलान् ।
कथं सा रमते बाला पश्यन्ती मामपश्यती ॥८॥
puṣpitāṃścāsanāndṛṣṭvā kāñcanāniva nirmalān ।
kathaṃ sā ramate bālā paśyantī māmapaśyatī ॥8॥
या पुरा कलहंसानां स्वरेण कलभाषिणी ।
बुध्यते चारुसर्वाङ्गी साद्य मे बुध्यते कथम् ॥९॥
yā purā kalahaṃsānāṃ svareṇa kalabhāṣiṇī ।
budhyate cārusarvāṅgī sādya me budhyate katham ॥9॥
निःस्वनं चक्रवाकानां निशम्य सहचारिणाम् ।
पुण्डरीकविशालाक्षी कथमेषा भविष्यति ॥१०॥
niḥsvanaṃ cakravākānāṃ niśamya sahacāriṇām ।
puṇḍarīkaviśālākṣī kathameṣā bhaviṣyati ॥10॥
सरांसि सरितो वापीः काननानि वनानि च ।
तां विना मृगशावाक्षीं चरन्नाद्य सुखं लभे ॥११॥
sarāṃsi sarito vāpīḥ kānanāni vanāni ca ।
tāṃ vinā mṛgaśāvākṣīṃ carannādya sukhaṃ labhe ॥11॥
अपि तां मद्वियोगाच्च सौकुमार्याच्च भामिनीम् ।
न दूरं पीडयेत्कामः शरद्गुणनिरन्तरः ॥१२॥
api tāṃ madviyogācca saukumāryācca bhāminīm ।
na dūraṃ pīḍayetkāmaḥ śaradguṇanirantaraḥ ॥12॥
एवमादि नरश्रेष्ठो विललाप नृपात्मजः ।
विहङ्ग इव सारङ्गः सलिलं त्रिदशेश्वरात् ॥१३॥
evamādi naraśreṣṭho vilalāpa nṛpātmajaḥ ।
vihaṅga iva sāraṅgaḥ salilaṃ tridaśeśvarāt ॥13॥
ततश्चञ्चूर्य रम्येषु फलार्थी गिरिसानुषु ।
ददर्श पर्युपावृत्तो लक्ष्मीवाँल्लक्ष्मणोऽग्रजम् ॥१४॥
tataścañcūrya ramyeṣu phalārthī girisānuṣu ।
dadarśa paryupāvṛtto lakṣmīvā~llakṣmaṇo’grajam ॥14॥
तं चिन्तया दुःसहया परीतं विसंज्ञमेकं विजने मनस्वी ।
भ्रातुर्विषादात्परितापदीनः समीक्ष्य सौमित्रिरुवाच रामम् ॥१५॥
taṃ cintayā duḥsahayā parītaṃ visaṃjñamekaṃ vijane manasvī ।
bhrāturviṣādātparitāpadīnaḥ samīkṣya saumitriruvāca rāmam ॥15॥
किमार्य कामस्य वशङ्गतेन किमात्मपौरुष्यपराभवेन ।
अयं सदा संह्रियते समाधिः किमत्र योगेन निवर्तितेन ॥१६॥
kimārya kāmasya vaśaṅgatena kimātmapauruṣyaparābhavena ।
ayaṃ sadā saṃhriyate samādhiḥ kimatra yogena nivartitena ॥16॥
क्रियाभियोगं मनसः प्रसादं समाधियोगानुगतं च कालम् ।
सहायसामर्थ्यमदीनसत्त्व स्वकर्महेतुं च कुरुष्व हेतुम् ॥१७॥
kriyābhiyogaṃ manasaḥ prasādaṃ samādhiyogānugataṃ ca kālam ।
sahāyasāmarthyamadīnasattva svakarmahetuṃ ca kuruṣva hetum ॥17॥
न जानकी मानववंशनाथ त्वया सनाथा सुलभा परेण ।
न चाग्निचूडां ज्वलिताम् उपेत्य न दह्यते वीरवरार्ह कश् चित् ॥१८॥
na jānakī mānavavaṃśanātha tvayā sanāthā sulabhā pareṇa ।
na cāgnicūḍāṃ jvalitām upetya na dahyate vīravarārha kaś cit ॥18॥
सलक्ष्मणं लक्ष्मणमप्रधृष्यं स्वभावजं वाक्यमुवाच रामः ।
हितं च पथ्यं च नयप्रसक्तं ससामधर्मार्थसमाहितं च ॥१९॥
salakṣmaṇaṃ lakṣmaṇamapradhṛṣyaṃ svabhāvajaṃ vākyamuvāca rāmaḥ ।
hitaṃ ca pathyaṃ ca nayaprasaktaṃ sasāmadharmārthasamāhitaṃ ca ॥19॥
निःसंशयं कार्यमवेक्षितव्यं क्रियाविशेषो ह्यनुवर्तितव्यः ।
ननु प्रवृत्तस्य दुरासदस्य कुमारकार्यस्य फलं न चिन्त्यम् ॥२०॥
niḥsaṃśayaṃ kāryamavekṣitavyaṃ kriyāviśeṣo hyanuvartitavyaḥ ।
nanu pravṛttasya durāsadasya kumārakāryasya phalaṃ na cintyam ॥20॥
अथ पद्मपलाशाक्षीं मैथिलीम् अनुचिन्तयन् ।
उवाच लक्ष्मणं रामो मुखेन परिशुष्यता ॥२१॥
atha padmapalāśākṣīṃ maithilīm anucintayan ।
uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā ॥21॥
तर्पयित्वा सहस्राक्षः सलिलेन वसुन्धराम् ।
निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः ॥२२॥
tarpayitvā sahasrākṣaḥ salilena vasundharām ।
nirvartayitvā sasyāni kṛtakarmā vyavasthitaḥ ॥22॥
स्निग्धगम्भीरनिर्घोषाः शैलद्रुमपुरोगमाः ।
विसृज्य सलिलं मेघाः परिश्रान्ता नृपात्मज ॥२३॥
snigdhagambhīranirghoṣāḥ śailadrumapurogamāḥ ।
visṛjya salilaṃ meghāḥ pariśrāntā nṛpātmaja ॥23॥
नीलोत्पलदलश्यामः श्यामीकृत्वा दिशो दश ।
विमदा इव मातङ्गाः शान्तवेगाः पयोधराः ॥२४॥
nīlotpaladalaśyāmaḥ śyāmīkṛtvā diśo daśa ।
vimadā iva mātaṅgāḥ śāntavegāḥ payodharāḥ ॥24॥
जलगर्भा महावेगाः कुटजार्जुनगन्धिनः ।
चरित्वा विरताः सौम्य वृष्टिवाताः समुद्यताः ॥२५॥
jalagarbhā mahāvegāḥ kuṭajārjunagandhinaḥ ।
caritvā viratāḥ saumya vṛṣṭivātāḥ samudyatāḥ ॥25॥
घनानां वारणानां च मयूराणां च लक्ष्मण ।
नादः प्रस्रवणानां च प्रशान्तः सहसानघ ॥२६॥
ghanānāṃ vāraṇānāṃ ca mayūrāṇāṃ ca lakṣmaṇa ।
nādaḥ prasravaṇānāṃ ca praśāntaḥ sahasānagha ॥26॥
अभिवृष्टा महामेघैर्निर्मलाश्चित्रसानवः ।
अनुलिप्ता इवाभान्ति गिरयश्चन्द्ररश्मिभिः ॥२७॥
abhivṛṣṭā mahāmeghairnirmalāścitrasānavaḥ ।
anuliptā ivābhānti girayaścandraraśmibhiḥ ॥27॥
दर्शयन्ति शरन्नद्यः पुलिनानि शनैः शनैः ।
नवसङ्गमसव्रीडा जघनानीव योषितः ॥२८॥
darśayanti śarannadyaḥ pulināni śanaiḥ śanaiḥ ।
navasaṅgamasavrīḍā jaghanānīva yoṣitaḥ ॥28॥
प्रसन्नसलिलाः सौम्य कुररीभिर्विनादिताः ।
चक्रवाकगणाकीर्णा विभान्ति सलिलाशयाः ॥२९॥
prasannasalilāḥ saumya kurarībhirvināditāḥ ।
cakravākagaṇākīrṇā vibhānti salilāśayāḥ ॥29॥
अन्योन्यबद्धवैराणां जिगीषूणां नृपात्मज ।
उद्योगसमयः सौम्य पार्थिवानामुपस्थितः ॥३०॥
anyonyabaddhavairāṇāṃ jigīṣūṇāṃ nṛpātmaja ।
udyogasamayaḥ saumya pārthivānāmupasthitaḥ ॥30॥
इयं सा प्रथमा यात्रा पार्थिवानां नृपात्मज ।
न च पश्यामि सुग्रीवमुद्योगं वा तथाविधम् ॥३१॥
iyaṃ sā prathamā yātrā pārthivānāṃ nṛpātmaja ।
na ca paśyāmi sugrīvamudyogaṃ vā tathāvidham ॥31॥
चत्वारो वार्षिका मासा गता वर्षशतोपमाः ।
मम शोकाभितप्तस्य सौम्य सीतामपश्यतः ॥३२॥
catvāro vārṣikā māsā gatā varṣaśatopamāḥ ।
mama śokābhitaptasya saumya sītāmapaśyataḥ ॥32॥
प्रियाविहीने दुःखार्ते हृतराज्ये विवासिते ।
कृपां न कुरुते राजा सुग्रीवो मयि लक्ष्मण ॥३३॥
priyāvihīne duḥkhārte hṛtarājye vivāsite ।
kṛpāṃ na kurute rājā sugrīvo mayi lakṣmaṇa ॥33॥
अनाथो हृतराज्योऽयं रावणेन च धर्षितः ।
दीनो दूरगृहः कामी मां चैव शरणं गतः ॥३४॥
anātho hṛtarājyo’yaṃ rāvaṇena ca dharṣitaḥ ।
dīno dūragṛhaḥ kāmī māṃ caiva śaraṇaṃ gataḥ ॥34॥
इत्येतैः कारणैः सौम्य सुग्रीवस्य दुरात्मनः ।
अहं वानरराजस्य परिभूतः परन्तप ॥३५॥
ityetaiḥ kāraṇaiḥ saumya sugrīvasya durātmanaḥ ।
ahaṃ vānararājasya paribhūtaḥ parantapa ॥35॥
स कालं परिसङ्ख्याय सीतायाः परिमार्गणे ।
कृतार्थः समयं कृत्वा दुर्मतिर्नावबुध्यते ॥३६॥
sa kālaṃ parisaṅkhyāya sītāyāḥ parimārgaṇe ।
kṛtārthaḥ samayaṃ kṛtvā durmatirnāvabudhyate ॥36॥
त्वं प्रविश्य च किष्किन्धां ब्रूहि वानरपुङ्गवम् ।
मूर्खं ग्राम्य सुखे सक्तं सुग्रीवं वचनान्मम ॥३७॥
tvaṃ praviśya ca kiṣkindhāṃ brūhi vānarapuṅgavam ।
mūrkhaṃ grāmya sukhe saktaṃ sugrīvaṃ vacanānmama ॥37॥
अर्थिनामुपपन्नानां पूर्वं चाप्युपकारिणाम् ।
आशां संश्रुत्य यो हन्ति स लोके पुरुषाधमः ॥३८॥
arthināmupapannānāṃ pūrvaṃ cāpyupakāriṇām ।
āśāṃ saṃśrutya yo hanti sa loke puruṣādhamaḥ ॥38॥
शुभं वा यदि वा पापं यो हि वाक्यमुदीरितम् ।
सत्येन परिगृह्णाति स वीरः पुरुषोत्तमः ॥३९॥
śubhaṃ vā yadi vā pāpaṃ yo hi vākyamudīritam ।
satyena parigṛhṇāti sa vīraḥ puruṣottamaḥ ॥39॥
कृतार्था ह्यकृतार्थानां मित्राणां न भवन्ति ये ।
तान्मृतानपि क्रव्यादः कृतघ्नान्नोपभुञ्जते ॥४०॥
kṛtārthā hyakṛtārthānāṃ mitrāṇāṃ na bhavanti ye ।
tānmṛtānapi kravyādaḥ kṛtaghnānnopabhuñjate ॥40॥
नूनं काञ्चनपृष्ठस्य विकृष्टस्य मया रणे ।
द्रष्टुमिच्छन्ति चापस्य रूपं विद्युद्गणोपमम् ॥४१॥
nūnaṃ kāñcanapṛṣṭhasya vikṛṣṭasya mayā raṇe ।
draṣṭumicchanti cāpasya rūpaṃ vidyudgaṇopamam ॥41॥
घोरं ज्यातलनिर्घोषं क्रुद्धस्य मम संयुगे ।
निर्घोषमिव वज्रस्य पुनः संश्रोतुमिच्छति ॥४२॥
ghoraṃ jyātalanirghoṣaṃ kruddhasya mama saṃyuge ।
nirghoṣamiva vajrasya punaḥ saṃśrotumicchati ॥42॥
काममेवं गतेऽप्यस्य परिज्ञाते पराक्रमे ।
त्वत्सहायस्य मे वीर न चिन्ता स्यान्नृपात्मज ॥४३॥
kāmamevaṃ gate’pyasya parijñāte parākrame ।
tvatsahāyasya me vīra na cintā syānnṛpātmaja ॥43॥
यदर्थमयमारम्भः कृतः परपुरञ्जय ।
समयं नाभिजानाति कृतार्थः प्लवगेश्वरः ॥४४॥
वर्षासमयकालं तु प्रतिज्ञाय हरीश्वरः ।
व्यतीतांश्चतुरो मासान्विहरन्नावबुध्यते ॥४५॥
सामात्यपरिषत्क्रीडन्पानमेवोपसेवते ।
शोकदीनेषु नास्मासु सुग्रीवः कुरुते दयाम् ॥४६॥
उच्यतां गच्छ सुग्रीवस्त्वया वत्स महाबल ।
मम रोषस्य यद्रूपं ब्रूयाश्चैनमिदं वचः ॥४७॥
न च सङ्कुचितः पन्था येन वाली हतो गतः ।
समये तिष्ठ सुग्रीवमा वालिपथमन्वगाः ॥४८॥
एक एव रणे वाली शरेण निहतो मया ।
त्वां तु सत्यादतिक्रान्तं हनिष्यामि सबान्धवम् ॥४९॥
तदेवं विहिते कार्ये यद्धितं पुरुषर्षभ ।
तत्तद्ब्रूहि नरश्रेष्ठ त्वर कालव्यतिक्रमः ॥५०॥
कुरुष्व सत्यं मयि वानरेश्वर प्रतिश्रुतं धर्ममवेक्ष्य शाश्वतम् ।
मा वालिनं प्रेत्य गतो यमक्षयं त्वमद्य पश्येर्मम चोदितैः शरैः ॥५१॥
स पूर्वजं तीव्रविवृद्धकोपं लालप्यमानं प्रसमीक्ष्य दीनम् ।
चकार तीव्रां मतिमुग्रतेजा हरीश्वरमानववंशनाथः ॥५२॥